(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - कर्णपर्व


॥ श्रीः ॥
8.99. अध्यायः 099
Mahabharata - Karna Parva - Chapter Topics
शल्येन कर्णमरणाद्व्याकुलमनसो दुर्योधनस्य समाश्वासनम्॥ 1 ॥ तथा तम्प्रति रणाङ्कणवर्णनम्॥ 2 ॥ देवगन्धर्वादीनां स्वस्वस्थानगमनम्॥ 3 ॥


Mahabharata - Karna Parva - Chapter Text

सञ्जय उवाच। 8-99-0x(5068)(59906)
कर्णं तु शूरं पतितं पृथिव्यां
शराचितं शोणितदिग्धगात्रम्।
यदृच्छया सूर्यमिवावनिं गतं
दिदृक्षवः सम्परिवार्य तस्थुः॥ 8-99-1(59907)
प्रहृष्टवित्रस्तविषण्णविस्मिता--
स्तथाऽपरे शोकसमन्विताऽभवन्।
परे त्वदीयाश्च रणे विशाम्पते
यथायथेष्टं पृतना तथा गता॥ 8-99-2(59908)
प्रविद्धवर्माभरणायुधाम्बरं
धनञ्जयेन प्रहतं महारथम्।
निशाम्य कर्णं कुरवः प्रदुद्रुवु--
र्हतर्षभं केसरिणेव गोकुलम्॥ 8-99-3(59909)
कृत्वा दिमर्दं भृशमर्जुनेन
कर्णं हतं केसरिणेव नागम्।
दृष्ट्वा शयानं युधि मद्रराज--
श्छिन्नध्वजेनापययौ रथेन॥ 8-99-4(59910)
कर्णे हते पार्थभयात्प्रदुद्रुवु--
र्वैकर्तने धार्तराष्ट्राः सशल्याः।
अवेक्षमाणा मुहुरर्जुनस्य
केतुं महान्तं यशसा ज्वलन्तम्॥ 8-99-5(59911)
शल्यस्तु कर्णार्जुनयोर्विमर्दे
बलानि दृष्ट्वा मृदितध्वजानि।
ययौ स तेनैव रथेन तूर्णं
हेलीकृतः सृञ्जयसोमकैश्च॥ 8-99-6(59912)
निपातितस्यन्दनवाजिनागं
बलं च दृष्ट्वा हतसूतपुत्रम्।
भीमस्तु भीमेन तदा स्वरेण
समुन्नदद्रोदसी कम्पयंश्च। 8-99-7(59913)
आस्फोटयन्नृत्यति वल्गते च
हते कर्णे त्रासयन्धार्तराष्ट्रान्।
तदा राजन्सृञ्जयाः सोमकाश्च
शङ्खान्दध्मुः सस्वजुश्चापि सर्वे॥ 8-99-8(59914)
परस्परं क्षत्रिया हृष्टरूपाः
सूतात्मजे वै निहते तदानीम्।
दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो
दीनो मुहुर्निश्वसन्नार्तरूपः॥ 8-99-9(59915)
मद्राधिपश्चापि विमूढचेता--
स्तूर्णं ध्वजेनापहृतेन तेन।
रथेन दुर्योधनमेत्य तूर्णं
पश्यन्सुदुःखात्तमुवाच राजन्॥ 8-99-10(59916)
विशीर्णनागाश्वरथप्रवीरं
बलं त्वदीयं यमराष्ट्रकल्पम्।
अन्योन्यमासाद्य हतैः शयानै--
र्नराश्वनागैर्गिरिकूटकल्पैः॥ 8-99-11(59917)
नैतादृशं भारत युद्धमासी--
द्यथा हि कर्णार्जुनयोर्बभूव।
ग्रस्तौ हि कर्णेन समेत्य कृष्णा--
वन्ये हि सर्वे तव शात्रवेयाः॥ 8-99-12(59918)
दैवं तु यत्तत्स्ववशे प्रवृत्तं
तत्पाण्डवान्पाति निहन्ति चास्मान्।
तवार्थसिद्ध्यर्थकरा हि सर्वे
प्रसह्य वीरा निहता द्विषद्भिः॥ 8-99-13(59919)
कुबेरवैवस्वतवासवानां
तुल्यप्रभावा वरुणस्य चापि।
वीर्येण शौर्येण पराक्रमेण
तैश्चापि युक्ता विमलैर्गुणौघैः॥ 8-99-14(59920)
अवध्यकल्पा निहता नरेन्द्रा--
स्तवार्थकामा युधि पाण्डवेयैः।
तन्मा शुचो भारत दिष्टमेत--
त्पर्यायसिद्धिर्न तु नित्यसिद्धिः॥ 8-99-15(59921)
एतद्वचो मद्रपतेर्निशम्य
स्वं चाविनीतं मनसा विचिन्त्य।
दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो
मुहुर्मुहुर्निश्वसन्नार्तरूपः॥ 8-99-16(59922)
*तद्व्यानमूकं कृपणं भृशार्त--
मार्तायनिर्दीनमुवाच राजन्।
पश्येदमुग्रैर्नरवाजिनागै--
रायोधनं वीर हतैः सुपूर्णम्॥ 8-99-17(59923)
महीधराभैः पतितैश्च नागैः
सकृत्प्रयत्नैः शरभिन्नगात्रैः।
प्रविह्वलद्भिश्च गतासुभिश्च
प्रध्वस्तवर्मायुधसर्वयोधैः॥ 8-99-18(59924)
वज्रापविद्वैरिव चाचलौघै--
र्विभिन्नपाषाणमृगद्रुमौघैः।
प्रविद्धघण्टाङ्कुशतोमरध्वजैः
सहेमजालै रुधिरौघसम्प्लवैः॥ 8-99-19(59925)
शरावनुन्नैः पतितैस्तुरङ्गै--
स्तनद्भिरार्तैः क्षतजं वमद्भिः।
दीनैस्त्रसद्भिः परिवृत्तनेत्रै--
र्मही पतद्भिः कृपणा वभूव॥ 8-99-20(59926)
तथाऽपविद्वैर्गजवाजियूथै--
र्मन्दासुभिश्चापि गतासुभिश्च।
रथैश्च नागैस्तुरगैश्च नुन्नै--
र्मही महावैतरणीव भाति॥ 8-99-21(59927)
गजैर्निकृत्तापरहस्तगात्रै--
रुद्वेपमानैः पतितैः पृथिव्याम्।
रथर्षभैर्नागवराश्वयोधैः
पदातिभिश्चाभिमुखैः परैर्हतैः॥ 8-99-22(59928)
विशीर्णवर्माभरणाम्बरायुधै--
र्युता प्रशान्तैरिव पावकैर्मही।
शरप्रहाराभिहतैर्महाबलै--
रवेक्षमाणैः पतितैः समन्ततः॥ 8-99-23(59929)
प्रनष्टसंज्ञैः पुनराश्वसद्भि--
र्मही बभौ कुम्भगतैरिवाग्निभिः।
रत्नैश्च्युतैर्भूरतिदीप्तिमद्भि--
र्नक्तं ग्रहैर्द्यौर्विमलैर्विभाति॥ 8-99-24(59930)
शरास्तु कर्णार्जुनबाहुमुक्ता
विदार्य नागांश्च मनुष्यदेहान्।
प्राणान्निरस्याशु महीं प्रतीयु--
र्महोरगा वासमिवाभिनम्राः॥ 8-99-25(59931)
हतैर्मनुष्यैश्च गजैश्च सङ्ख्ये
शरावभिन्नै रुधिरप्रदिग्धैः।
धऩञ्जयस्याधिरथेश्च मार्गे
हतैरगम्या वसुधाऽतिदुर्गा॥ 8-99-26(59932)
रथैर्महेषून्मथितैः सुकल्पितैः
सनागयोधाश्ववरायुधध्वजैः
विशीर्णयोक्त्रैर्विनिकीर्णबन्धनै--
र्निकृत्तचक्राक्षयुगत्रिवेणुभिः॥ 8-99-27(59933)
विमुक्तयोक्त्रैश्च रथैरुपस्करैः
कृताभिषङ्गैर्विनिबद्वकूबरैः।
प्रभग्ननीडैर्मणिहेमभूषितै--
र्वृता मही द्यौरिव शारदैर्घनैः॥ 8-99-28(59934)
निकृष्यमाणा जवनैस्तुरङ्गमै--
र्हतेश्वरा राजरथाः सुकल्पिताः।
मनुष्यमातङ्करथाश्वसादिषु
द्रुतं व्रजन्तो बहुधा विघूर्णिताः॥ 8-99-29(59935)
सहेमपृष्ठाः सपरश्वथायुधाः
शिताश्च शूला मुसलाः समुद्गराः।
चित्राश्च खङ्गा विमलाश्च कोशा
गजाश्च जाम्बूनदपट्टनद्धाः॥ 8-99-30(59936)
चापानि जाम्बूनदभूषितानि
शराश्च कार्तस्वरचित्रपुङ्खाः।
ऋष्ट्यश्च पीता विमलाश्च कोशाः
प्रासाश्च दण्डाः कनकप्रभासाः॥ 8-99-31(59937)
शुभ्राणि वालव्यजनानि शङ्खा--
श्छिन्नावरुद्धा विरुचः स्रजश्च।
कुथाः पताकाम्बरवेष्टनानि
किरीटमाला मकुटाश्च शुभ्राः॥ 8-99-32(59938)
प्रकीर्णका विप्रतिकीर्णकाश्च
प्रधानमुख्यास्तरलाश्च हाराः।
आपीडकेयूरवराङ्गदानि
ग्रैवेयनिष्काः ससुवर्णसूत्राः॥ 8-99-33(59939)
मण्युत्तमा वज्रसुवर्णयुक्ता
रत्नानि चोच्चावचमङ्गलानि।
गात्राणि चाभान्ति सुखोचितानि
शिरांसि चेन्दुप्रतिमाननानि॥ 8-99-34(59940)
देहांश्च भोगांश्च परिच्छदांश्च
त्यक्त्वा मनोज्ञा निहताः सुखानि।
स्वधर्मनिष्ठां महतीमवाप्य
प्राप्ताश्च लोकान्यशसा गतास्ते॥ 8-99-35(59941)
निवर्त दुर्योधन यान्तु सैनिका
व्रजस्व राजञ्शिबिराणि मानद।
दिवाकरोऽप्येष विलम्बते प्रभो
पुनस्त्वमेवात्र नरेन्द्र कारणम्॥ 8-99-36(59942)
सञ्जय उवाच। 8-99-37x(5069)
एतावदुक्त्वा विरराम शल्यो
दुर्योधनं चैव निवर्तयित्वा।
युद्धाय राजन्विनिविष्टबुद्धि--
र्हा कर्ण हा कर्ण इति ब्रुवाणम्॥ 8-99-37(59943)
तं द्रोणपुत्रप्रमुखा नरेन्द्राः
सर्वे समाश्वास्य ततः प्रजग्मुः।
निरीक्षमाणा ध्वजमर्जुनस्य
रथं च दिव्यं यशसा ज्वलन्तम्॥ 8-99-38(59944)
नराश्वमातङ्गशरीरजेन
रक्तेन सिक्तां रुधिरेण भूमिम्।
रक्ताम्बरस्रक्तपनीययोगा--
न्नारीं प्रकाशामिव सर्वरम्याम्॥ 8-99-39(59945)
प्रच्छन्नरूपां रुधिरेण राज
न्रौद्रे मुहूर्तेऽतिविराजमाने।
नैवावतस्थुः कुरवः समीक्ष्य
प्रव्राजिता नरदेवा यथाऽक्षैः॥ 8-99-40(59946)
वधेन कर्णस्य सुदुःखितास्ते
हा कर्ण हा कर्ण इति ब्रुवाणाः।
द्रुतं प्रजग्मुः शिबिराणि राज--
न्दिवाकरं रक्तमवेक्षमाणाः॥ 8-99-41(59947)
गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैः
शिलाशितैः शोणितदिग्धवाजैः।
शरैश्चिताङ्गोऽपि रराज कर्णो
हतोऽपि दीप्तांशुरिवांशुजालैः॥ 8-99-42(59948)
कर्णस्य देहं रुधिराम्बुसिक्तं
पुत्रानकुम्पी भगवान्विवस्वान्।
स्पृष्ट्वा कराग्रैः क्षतजानुरूपैः
स्नातुं तदाऽगादपरं समुद्रम्॥ 8-99-43(59949)
इतीव सञ्चिन्त्य सुरर्षभाश्च
सम्प्रस्थितास्ते तु यथानिकेतम्।
सञ्चिन्त्य सर्वा जनता विसस्रु--
र्यथासुखं खे च महीतले च॥ 8-99-44(59950)
तदद्भुतं प्राणभृतां भयङ्करं
निशाम्य युद्धं कुरुवीरमुख्ययोः।
समाचितौ कर्णशरैऋ परन्तपौ
तथैव संरेजतुरच्युतार्जुनौ॥ 8-99-45(59951)
तमो निहत्याभ्युदितौ यथाऽमलौ
शशाङ्कसूर्याविव रश्मिमालिनौ।
विहाय तान्बाणगणान्महाबलौ
सुहृद्वृतावप्रतिमानविक्रमौ॥ 8-99-46(59952)
सुखप्रविष्टौ सुखदौ विरेजतुः
सदस्यचिन्त्याविव विष्णुवासवौ।
सदेवगन्धर्वमनुष्यचारणै--
र्महर्षिभिर्यक्षमहोरगैरपि।
जयाभिवृद्ध्या परयाऽभिपूजितौ
निहत्य कर्णं परमाहवे तदा॥ 8-99-47(59953)
यथानुरूपं प्रतिपूज्य तानथ
प्रशस्यमानावतुलैश्च कर्मभिः।
ननन्दतुश्चैव सुहृद्भिरावृतौ
बलं निहत्येव सुरेशकेशवौ॥ ॥ 8-99-48(59954)

इति श्रीमन्महाभारते कर्णपर्वणि एकोनशततमोऽध्यायः॥ 99 ॥

Mahabharata - Karna Parva - Chapter Text

8-99-0(59955)
[धृष्टराष्ट्र उवाच। 8-99-0x(5070)
तस्मिंस्तु कर्णार्जुनयोर्विमर्दे
दग्धस्य रौद्रेऽहनि विद्रुतस्य।
बभूव कुरुसृञ्जयानां
बलस्य बाणोन्मथितस्य कीदृक्॥ 8-99-1(59956)
सञ्जय उवाच। 8-99-2x(5071)
शृणु राजन्नवहितो यथा वृत्तो महाक्षयः।
घोरो मनुष्यदेहानामाजौ च गजवाजिनाम्॥ 8-99-2(59957)
यत्र कर्णे हते पार्थः सिंहनादमथाकरोत्।
तदा तव सुतान्राजन्नाविवेश महद्भयम्॥ 8-99-3(59958)
न सन्धातुमनीकानि न चैवाशु पराक्रमे।
आसीद्वुद्विर्हते कर्णे तव योधस्य कर्हिचित्॥ 8-99-4(59959)
वणिजो नावि भिन्नायामगाधे विप्लुवे यथा।
अपारे पारमिच्छन्तो हते द्वीपे किरीटिना॥ 8-99-5(59960)
सूतपुत्रे हते राजन्वित्रस्ताः शस्त्रविक्षताः।
अनाथा नाथमिच्छन्तो मृगाः सिंहैरिवार्दिताः॥ 8-99-6(59961)
भग्नशृङ्गा वृषा यद्वद्भग्नदंष्ट्रा इवोरगाः।
प्रत्यपायाम सायाह्ने निर्जिताः सव्यसाचिना॥ 8-99-7(59962)
हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः।
सूतपुत्रे हते राजन्पुत्रास्ते दुद्रुवुर्भयात्॥ 8-99-8(59963)
विस्रस्तयन्त्रकवचाः कान्दिग्भूता विचेतसः।
अन्योन्यमवमृद्गन्तो वीक्षमाणा भयार्दिताः॥ 8-99-9(59964)
मामेव नूनं बीभत्सुर्मामेव च वृकोदरः।
अभियातीति मन्वानाः पेतुर्मम्लुश्च सम्भ्रमात्॥ 8-99-10(59965)
हयानन्ये गजानन्ये रथानन्ये महारथाः।
आरुह्य जवसम्पन्नाः पदातीन्प्रजहुर्भयात्॥ 8-99-11(59966)
कुञ्जरैः स्यन्दनाः क्षुण्णाः सादिनश्च महारथैः।
पदातिसङ्घाश्चाश्वौधैः पलायद्भिर्भयार्दितैः॥ 8-99-12(59967)
व्यालतस्करसङ्कीर्णे सार्थहीना यथा वने।
सूतपुत्रे हते राजंस्तव योधास्तथाऽभवन्॥ 8-99-13(59968)
हतारोहा यथा नागाश्छिन्नहस्ता यथा नराः।
सर्वे पार्थमयं लोकं सम्पश्यन्तो भयार्दिताः॥ 8-99-14(59969)
सम्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान्।
दुर्योधनोऽथ स्वं सूतं हाहाकृत्वेदमब्रवीत्॥ 8-99-15(59970)
नातिक्रमेच्च मां पार्थो धनुष्पाणिमवस्थितम्।
जघने सर्वसैन्यानां शनैरश्वान्प्रचोदय॥ 8-99-16(59971)
युध्यमानं हि कौन्तेयं हनिष्यामि न संशयः।
नोत्सहेन्मामतिक्रान्तुं वेलामिव महोदधिः॥ 8-99-17(59972)
अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम्।
अन्याञ्शिष्टांस्तथा शत्रून्कर्णस्यानृण्यमाप्नुयाम्॥ 8-99-18(59973)
तच्छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः।
सूतो हेमपरिच्छन्नाञ्शनैरश्वानचोदयत्॥ 8-99-19(59974)
रथाश्वनागहीनास्तु पादातास्तव मारिष।
पञ्चविंशतिसाहस्रा युद्वायैव व्यवस्थिताः॥ 8-99-20(59975)
तान्भीमसेनः सङ्क्रुद्धो धृष्ट्यद्युम्नश्च पार्षतः।
बलेन चतुरङ्गेण संवृत्याजघ्नतुः शरैः॥ 8-99-21(59976)
प्रत्ययुध्यन्त समरे भीमसेनं सपार्षतम्।
पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी॥ 8-99-22(59977)
अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः।
सोऽवतीर्य रथात्तूर्णं गदापाणिरयुध्यत॥ 8-99-23(59978)
न तान्रथस्थो भूमिष्ठान्धर्मापेक्षी वृकोदरः।
योधयामास कौन्तेयो भुजवीर्यव्यपाश्रयः॥ 8-99-24(59979)
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम्।
अवधीत्तावकान्सर्वान्दण्डपाणिरिवान्तकः॥ 8-99-25(59980)
पदातिनोऽपि सन्त्यक्त्वा प्रियं जीवितमात्मनः।
भीममभ्यद्रवन्सङ्ख्ये पतङ्गा ज्वलनं यथा॥ 8-99-26(59981)
आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः।
विनेशुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम्॥ 8-99-27(59982)
श्येनवद्विचरन्भीमो गदाहस्तो महाबलः।
पञ्चविंशतिसाहस्रांस्तावकानवपोथयत्॥ 8-99-28(59983)
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः।
धृष्टद्युम्नं पुरस्कृत्य तस्थौ तत्र महाबलः॥ 8-99-29(59984)
धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान्।
माद्रीपुत्रौ तु शकुनिं सात्यकिश्च महारथः।
जवेनाभ्यपतन्हृष्टा घ्नन्तो दौर्योधनं बलम्॥ 8-99-30(59985)
तस्याश्वसादीन्सुबहूंस्ते निहत्य शितैः शरैः।
समभ्यधावंस्त्वरितास्तत्र युद्धमभून्महत्॥ 8-99-31(59986)
धनञ्जयोऽपि चाभ्येत्य रथानीकं तव प्रभो।
विश्रुतं त्रिषु लोकेषु गाण्डीवं विक्षिपन्धनुः॥ 8-99-32(59987)
कृष्णसारथिमायान्तं दृष्ट्वा श्वेतहयं रथम्।
अर्जुनं चापि योद्वारं त्वदीयाः प्राद्रवन्भयात्॥ 8-99-33(59988)
विप्रहीणरथाश्चैव शरैश्च परिकर्शिताः।
पञ्चविंशतिसाहस्राः कालमार्छन्पदातयः॥ 8-99-34(59989)
हत्वा तान्पुरुषव्याघ्रः पाञ्चालानां महारथः।
पुत्राः पाञ्चालराजस्य धृष्टद्युम्नो महामनाः॥ 8-99-35(59990)
भीमसेनं पुरस्कृत्य नचिरात्प्रत्यदृश्यत।
महाधनुर्धरः श्रीमानमित्रगणतापनः॥ 8-99-36(59991)
पारावतसवर्णाश्वं कोविदारमयध्वजम्।
धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन्भयात्॥ 8-99-37(59992)
गान्धारराजं शीघ्रास्त्रमनुसृत्य यशस्विनौ।
नचिरात्प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी॥ 8-99-38(59993)
वेकितानः शिखण्डी च द्रौपदेयाश्च मारिष।
हत्वा त्वदीयं सुमहत्सैन्यं शङ्खांस्तथाऽधमन्॥ 8-99-39(59994)
ते सर्वे तावकान्प्रेक्ष्य द्रवतोऽपि पराङ्मुखान्।
अभ्यवर्तन्त संरब्धान्वृषाञ्जित्वा यथा वृषाः॥ 8-99-40(59995)
सेनावशेषं तं दृष्ट्वा तव सैन्यस्य पाण्डवः।
व्यवस्थितः सव्यसाची चुक्रोध बलवान्नृप॥ 8-99-41(59996)
धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान्।
विश्रुतं त्रिषु लोकेषु व्याक्षिपद्गाण्डिवं धनुः॥ 8-99-42(59997)
तत एनाञ्शरव्रातैः सहसा समवाकिरत्।
तमसा संवृतेनाथ न स्म किञ्चिद्वदृश्यत॥ 8-99-43(59998)
अन्धकारीकृते लोके रजोभूते महीतले।
योधाः सर्वे महाराज तावकाः प्राद्रावन्भयात्॥ 8-99-44(59999)
सम्भज्यमाने सैन्ये तु कुरुराजो विशाम्पते।
परानभिमुखांश्चैव सुतस्ते समुपाद्रवत्॥ 8-99-45(60000)
ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान्।
युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः॥ 8-99-46(60001)
त एनमभिगर्जन्तः सहिताः समुपाद्रवन्।
नानाशस्त्रभृतः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः॥ 8-99-47(60002)
दुर्योधनोऽप्यसम्भ्रान्तस्तान्रणे निशितैः शरैः।
तत्रावधीत्ततः क्रुद्वः शतशोऽथ सहस्रशः॥ 8-99-48(60003)
तत्सैन्यं पाण्डवेयानां योधयामास सर्वतः॥ 8-99-49(60004)
तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम्।
यदेकः सहितान्सर्वान्रणेऽयुध्यत पाण्डवान्।
ततोऽपश्यन्महात्मा स स्वसैन्यं भृशदुःखितम्॥ 8-99-50(60005)
ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः।
हर्षयन्निव तान्योधानिदं वचनमब्रवीत्॥ 8-99-51(60006)
न तं देशं प्रपश्यामि यत्र याता भयार्दिताः।
गतानां यत्र वै मोक्षः पाण्डवात्किं गतेन वः॥ 8-99-52(60007)
अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ।
अद्य सर्वान्हनिष्यामिध्रुवो हि विजयो भवेत्॥ 8-99-53(60008)
विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्विषान्।
अनुसृत्य वधिष्यन्ति श्रेयान्नः समरे वधः॥ 8-99-54(60009)
सुखं साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम्।
मृतो दुःखं न जानीते प्रेत्य चानन्त्यमश्नुते॥ 8-99-55(60010)
शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः।
यदा शूरं च भीरुं च मारयत्यन्तको मयः॥ 8-99-56(60011)
को न मूढो न युध्येत मादृशः क्षत्रियव्रतः।
द्विषतो भीमसेनस्य क्रद्धस्य वशमेष्यथा॥ 8-99-57(60012)
पितामहैराचरितं न धर्मं हातुमर्हथ।
न ह्यधर्मोऽस्ति पापीयान्क्षत्रियस्य पलायनात्॥ 8-99-58(60013)
न युद्धधर्माच्छ्रेयो हि पन्थाः स्वर्गस्य कौरवाः।
अचिरेण हता लोकान्सद्यो योधाः समश्नुत॥ 8-99-59(60014)
सञ्जय उवाच। 8-99-60x(5072)
एवं ब्रुवति पुत्रे ते सैनिका भृशविक्षताः।
अनवेक्ष्यैव तद्वाक्यं प्राद्रवन्सर्वतो दिशः॥ 8-99-60(60015)
सञ्जय उवाच। 8-99-61x(5073)
8-99-61(60016)
दृष्ट्वा तु सैन्यं परिवृत्यमानं
पुत्रेण ते मद्रपतिस्तदानीम्।
सन्त्रस्तरूपः परिमूढचेता
दुर्योधनं वाक्यमिदं बभाषे]॥
Mahabharata - Karna Parva - Chapter Footnotes

8-99-2 प्रहृष्टाः अर्जुनादयः। वित्रस्ताः भीरवः। विषण्णाः शत्रवः। विस्मिताः प्रेक्षकाः॥ 8-99-* अत्र झ.पाठे 61 श्लोका अधिका दृश्यन्ते 8-99-99 एकोनशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.